Shree Krishna Quotes in Sanskrit

वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्।| 

अतः सत्यं यतो धर्मो मतो हीरार्जवं यतः। ततो भवति गोविन्दो यतः कृष्णस्ततो जयः।। 

पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः। विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः।। 

वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः। जीवनेन धने नित्यं राधाकृष्णगतिर्मम।। 

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युथानमधर्मस्य तदात्मानं सृजाम्यहम्॥ 

कृष्णाय वासुदेवाय हरये परमात्मने। प्रणत क्लेशनाशाय गोविन्दाय नमो नम: || 

“कृष्णप्रेममयी राधा राधाप्रेममयो हरिः। जीवनेन धने नित्यं राधाकृष्णगतिर्मम।।” 

“कृष्णचित्तस्थिता राधा  राधाचित्स्थितो हरिः। जीवनेन धने नित्यं  राधाकृष्णगतिर्मम।।” 

“नीलाम्बरा धरा राधा पीताम्बरो  धरो हरिः। जीवनेन धने नित्यं राधाकृष्णगतिर्मम।।”