Friendship Quotes in Sanskrit

आढ् यतो वापि दरिद्रो वा दुःखित सुखितोऽपिवा ।  निर्दोषश्च सदोषश्च व्यस्यः परमा गतिः ॥ 

न कश्चित कस्यचित मित्रं न कश्चित कस्यचित रिपु: । व्यवहारेण जायन्ते, मित्राणि रिप्वस्तथा ।। 

विवादो धनसम्बन्धो याचनं चातिभाषणम् । आदानमग्रतः स्थानं मैत्रीभङ्गस्य हेतवः॥ 

न गृहं गृहमित्याहुः गृहणी गृहमुच्यते। गृहं हि गृहिणीहीनं अरण्यं सदृशं मतम्। 

तावत्प्रीति भवेत् लोके यावद् दानं प्रदीयते । वत्स: क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्|| 

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः  नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति || 

माता मित्रं पिता चेती स्वभावात् त्रतयं हितम्। कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः।। 

विद्या मित्रं प्रवासेषु भार्या मित्रं गॄहेषु च। व्याधितस्यौषधं मित्रं धर्मो मित्रं मॄतस्य च।। 

To Know More About Friendship Quotes in Sanskrit