Bhagavad Gita Slokas for Kids
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा |
न चैव न भविष्याम: सर्वे वयमत: परम् ||
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्|
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: ||
काम एष क्रोध एष रजोगुणसमुद्भव: ||
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||
सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते ||
Slokas for Kid
Learn more